वांछित मन्त्र चुनें

व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ । पुर॑: कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा व॑: सुस्रोच्चम॒सो दृंह॑ता॒ तम् ॥

अंग्रेज़ी लिप्यंतरण

vrajaṁ kṛṇudhvaṁ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni | puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṁhatā tam ||

पद पाठ

व्र॒जम् । कृ॒णु॒ध्व॒म् । सः । हि । वः॒ । नृ॒ऽपानः॑ । वर्म॑ । सी॒व्य॒ध्व॒म् । ब॒हु॒ला । पृ॒थूनि॑ । पुरः॑ । कृ॒णु॒ध्व॒म् । आय॑सीः । अधृ॑ष्टाः । मा । वः॒ । सु॒स्रो॒त् । च॒म॒सः । दृंह॑त । तम् ॥ १०.१०१.८

ऋग्वेद » मण्डल:10» सूक्त:101» मन्त्र:8 | अष्टक:8» अध्याय:5» वर्ग:19» मन्त्र:2 | मण्डल:10» अनुवाक:9» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (व्रजम्) हे मनुष्यों ! देश को (कृणुध्वम्) बनाओ-बसाओ-सम्पन्न बनाओ (सः-हि वः) वही तुम्हारा (नृपाणः) मनुष्यों का रक्षक है (बहुला पृथूनि) बहुत महान् विशाल (वर्म सीव्यध्वम्) कवच वस्तुओं को सीवो-तथा प्रकोटे रचो (आयसीः) लोहमय दृढ़ (अधृष्टाः) अबाध्य (पुरः) नगरों को (कृणुध्वम्) करो (वः) तुम्हारा (चमसः) भोजनागार तथा अन्नभण्डार (मा सुस्रोत्) कभी स्रवित न हो-रिक्त न हो (तं दृंहत) उसे दृढ़ करो ॥८॥
भावार्थभाषाः - मनुष्यों को मिलकर देश बसाना और उन्नत बनाना चाहिये। उसके चारों ओर प्रकोटे बनाना तथा उसमें नगरों को बसाना और वस्तुओं का निर्माण करना, भोजनागार तथा अन्नभण्डार भी दृढरूप में बनाना रखना चाहिये ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (व्रजं कृणुध्वम्) देशम् “व्रजं प्राप्तं देशम्” [ऋ० १।१५६।४ दयानन्दः] कुरुत (सः-हि वः-नृपाणः) स खलु युष्माकं नराणां रक्षकः (बहुला पृथूनि) बहूनि महान्ति विशालानि (वर्म सीव्यध्वम्) वर्माणि-कवचवस्त्राणि रचयत “सीव्यन् रचयन्” [ऋ० २।१७।७ दयानन्दः] (आयसीः) लोहमयानि-दृढानि (अधृष्टाः) अबाध्यानि (पुरः) नगराणि (कृणुध्वम्) कुरुत (वः) युष्माकं (चमसः) चमन्ति भक्षयन्ति यस्मिन् स भोजनागारः “चमु अदने” [भ्वादि०] “चमु भक्षणे” [स्वादि०] ततोऽसच् प्रत्ययः [उणा० ३।११७] (मा सुस्रोत्) न स्रवितो भवेत्-न न्यूनो भवेत् (तं दृंहत) तं दृढं कुरुत ॥८॥